Friday 4 May 2012

प्रथमाध्याये द्वितीयः पादः 1-2



पाणिनि महर्षि विरचिता अष्टाध्यायी
      प्रथमाध्याये द्वितीयः पादः

गाङ्-कुटादिभ्योऽञ्णिन्ङित् । । १,२.१  । ।
विज इट्  । । १,२.२  । ।
विभाषा-ऊर्णोः   । । १,२.३  । ।
सार्वधातुकं अपित् । । १,२.४  । ।
असंयोगाल्लिट्कित् । । १,२.५  । ।
इन्धि-भवतिभ्यां च   । । १,२.६  । ।
मृड्-अमृद-गुध-कुष-क्लिश-वद-वसः क्त्वा   । । १,२.७  । ।
रुद-विद-मुष-ग्रहि-स्वपि-प्रच्छः संश्च   । । १,२.८  । ।
इको झल्  । । १,२.९  । ।
हलन्ताच्च   । । १,२.१०  । ।
लिङ्-सिचौ आत्मनेपदेषु   । । १,२.११  । ।
उश्च   । । १,२.१२  । ।
वा गमः   । । १,२.१३  । ।
हनः सिच् । । १,२.१४  । ।
यमो गन्धने   । । १,२.१५  । ।
विभाषा-उपयमने   । । १,२.१६  । ।
स्थाघ्वोरिच्च   । । १,२.१७  । ।
न क्त्वा स-इट्  । । १,२.१८  । ।
निष्ठा शीङ्-स्विदि-मिदि-क्ष्विदि-धृषः   । । १,२.१९  । ।
मृषस्तितिक्षायाम्  । । १,२.२०  । ।
उदुपधाद्भाव-आदिकर्मणोरन्यतरस्याम्  । । १,२.२१  । ।
पूङः क्त्वा च   । । १,२.२२  । ।
न-उपधात्थ-फ-अन्ताद्वा   । । १,२.२३  । ।
वञ्चि-लुञ्च्य्-ऋतश्च   । । १,२.२४  । ।
तृषि-मृषि-कृशेः काश्यपस्य   । । १,२.२५  । ।
रलो व्-य्-उपधद्-धल्-आदेः संश्च   । । १,२.२६  । ।
ऊकालोऽज्-झ्रस्व-दीर्घ-प्लुतः   । । १,२.२७  । ।
अचश्च   । । १,२.२८  । ।
उच्चैरुदात्तः   । । १,२.२९  । ।
नीचैरनुदात्तः   । । १,२.३०  । ।
समाहारः स्वरितः   । । १,२.३१  । ।
तस्य-आदित उदात्तं अर्ध-ह्रस्वम्  । । १,२.३२  । ।
एक-श्रुति दूरात्सम्बुद्धौ   । । १,२.३३  । ।
यज्ञ-कर्मण्य्-अजप-न्यूङ्ख-सामसु   । । १,२.३४  । ।
उच्चैस्तरां वा वषट्कारः   । । १,२.३५  । ।
विभाषा छन्दसि   । । १,२.३६  । ।
न सुब्रह्मण्यायां स्वरितस्य तु उदात्तः   । । १,२.३७  । ।
देव-ब्रह्मणोरनुदात्तः   । । १,२.३८  । ।
स्वरितात्संहितायां अनुदात्तानाम्  । । १,२.३९  । ।
उदात्त-स्वरित-परस्य सन्नतरः   । । १,२.४०  । ।
अपृक्त एक-अल्प्रत्ययः   । । १,२.४१  । ।
तत्पुरुषः समान-अधिकरणः कर्मधारयः   । । १,२.४२  । ।
प्रथमा-निर्दिष्टं समास उपसर्जनम्  । । १,२.४३  । ।
एक-विभाक्ति च अपूर्व-निपाते   । । १,२.४४  । ।
अर्थवदधातुरप्रत्ययः प्रातिपदिकम्  । । १,२.४५  । ।
कृत्-तद्धित-समासाश्च   । । १,२.४६  । ।
ह्रस्वो नपुंसके प्रातिपदिकस्य   । । १,२.४७  । ।
गोस्त्रियोरुपसर्जनस्य   । । १,२.४८  । ।
लुक्तद्धित-लुकि   । । १,२.४९  । ।
इद्-गोण्याः   । । १,२.५०  । ।
लुपि युक्तवद्-व्यक्तिवचने   । । १,२.५१  । ।
विशेषणानां च अजातेः   । । १,२.५२  । ।
तदशिष्यं सञ्ज्ञा-प्रमाणत्वात् । । १,२.५३  । ।
लुब्योग-अप्रख्यानात् । । १,२.५४  । ।
योग-प्रमाणे च तद्-अभावेऽदर्शनं स्यात् । । १,२.५५  । ।
प्रधान-प्रत्यय-अर्थवचनं अर्थस्य अन्य-प्रमाणात्वात् । । १,२.५६  । ।
काल-उपसर्जने च तुल्यम्  । । १,२.५७  । ।
जात्य्-आख्यायं एकस्मिन्बहुवचनं अन्यतरस्याम्  । । १,२.५८  । ।
अस्मदो द्वयोश्च   । । १,२.५९  । ।
फल्गुनी-प्रोष्ठपदानां च नक्षत्रे   । । १,२.६०  । ।
छन्दसि पुनर्वस्वोरेकवचनम्  । । १,२.६१  । ।
विशाखयोश्च   । । १,२.६२  । ।
तिष्य-पुनर्वस्वोर्नक्षत्र-द्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्  । । १,२.६३  । ।
ससूपाणां एकशेष एक-विभक्तौ   । । १,२.६४  । ।
वृद्धो यूना तल्-लक्षणश्चेद्-एव विशेषः   । । १,२.६५  । ।
 स्त्री पुंवच्-च   । । १,२.६६  । ।
पुमान्स्त्रिया   । । १,२.६७  । ।
भ्रातृ-पुत्रौ स्वसृ-दुहितृभ्याम्  । । १,२.६८  । ।
नपुंसकं अनपुंसकेन-एकवच्-च-अस्य-अन्यतरस्याम्  । । १,२.६९  । ।
पिता मात्रा   । । १,२.७०  । ।
श्वशुरः श्वस्रवा   । । १,२.७१  । ।
त्यद्-आदीनि सर्वैर्नित्यम्  । । १,२.७२  । ।
ग्राम्य-पशु-सङ्घेष्वतरुणेशु स्त्री   । । १,२.७३  । ।


इति प्रथमाध्याये द्वितीयः पादः

No comments:

Post a Comment