पाणिनि महर्षि विरचिता अष्टाध्यायी
द्वितीयाध्याये तृतीयः पादः
अनभिहिते ॥ २,३.१ ॥
कर्मणि द्वितीया ॥ २,३.२ ॥
तृतीया च होश्छन्दसि ॥ २,३.३ ॥
अन्तराऽन्तरेण युक्ते ॥ २,३.४ ॥
कालाध्वनोरत्यन्तसंयोगे ॥ २,३.५ ॥
अपवर्गे तृतीया ॥ २,३.६ ॥
सप्तमीपञ्चम्यौ कारकमध्ये ॥ २,३.७ ॥
कर्मप्रवचनीययुक्ते द्वितीया ॥ २,३.८ ॥
यस्मादधिकं यस्य च+ईश्वरवचनं तत्र सप्तमी ॥ २,३.९ ॥
पञ्चम्यपाङ्परिभिः ॥ २,३.१० ॥
प्रतिनिधिप्रतिदाने च यस्मात् ॥ २,३.११ ॥
गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि ॥ २,३.१२ ॥
चतुर्थी सम्प्रदाने ॥ २,३.१३ ॥
क्रियार्थोपपदस्य च कर्मणि स्थानिनः ॥ २,३.१४ ॥
तुमर्थाच्च भाववचनात् ॥ २,३.१५ ॥
नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च ॥ २,३.१६ ॥
मन्यकर्मण्यनादरे विभाषाऽप्राणिषु ॥ २,३.१७ ॥
कर्तृकरणयोस्तृतीया ॥ २,३.१८ ॥
सहयुक्तेऽप्रधाने ॥ २,३.१९ ॥
येनाङ्गविकारः ॥ २,३.२० ॥
इत्थम्भूतलक्षणे ॥ २,३.२१ ॥
सञ्ज्ञोऽन्यतरस्यां कर्मणि ॥ २,३.२२ ॥
हेतौ ॥ २,३.२३ ॥
अकर्तर्यृणे पञ्चमी ॥ २,३.२४ ॥
विभाषा गुणेऽस्त्रीयाम् ॥ २,३.२५ ॥
षष्ठी हेतुप्रयोगे ॥ २,३.२६ ॥
सर्वनाम्नस्तृतीया च ॥ २,३.२७ ॥
अपादाने पञ्चमी ॥ २,३.२८ ॥
अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते ॥ २,३.२९ ॥
षष्ठ्यतसर्थप्रत्ययेन ॥ २,३.३० ॥
एनपा द्वितीया ॥ २,३.३१ ॥
पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् ॥ २,३.३२ ॥
करेण च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य ॥ २,३.३३ ॥
दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् ॥ २,३.३४ ॥
दूरान्तिकार्थेभ्यो द्वितीया च ॥ २,३.३५ ॥
सप्तम्यधिकरने च ॥ २,३.३६ ॥
यस्य च भावेन भावलक्षणम् ॥ २,३.३७ ॥
षष्ठी चानादरे ॥ २,३.३८ ॥
स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसुतैश्च ॥ २,३.३९ ॥
आयुक्तकुशलाभ्यां च आसेवायाम् ॥ २,३.४० ॥
यतश्च निर्धारनम् ॥ २,३.४१ ॥
पञ्चमी विभक्ते ॥ २,३.४२ ॥
साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः ॥ २,३.४३ ॥
प्रसितोत्सुकाभ्यां तृतीया च ॥ २,३.४४ ॥
नक्षत्रे च लुपि ॥ २,३.४५ ॥
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ॥ २,३.४६ ॥
सम्बोधने च ॥ २,३.४७ ॥
सा+आमन्त्रितम् ॥ २,३.४८ ॥
एकवचनं सम्बुद्धिः ॥ २,३.४९ ॥
षष्ठी शेषे ॥ २,३.५० ॥
ज्ञोऽविदर्थस्य करणे ॥ २,३.५१ ॥
अधीगर्थदयेशां कर्मणि ॥ २,३.५२ ॥
कृञः प्रतियत्ने ॥ २,३.५३ ॥
रुजार्थानां भाववचनानामज्वरेः ॥ २,३.५४ ॥
आशिषि नाथः ॥ २,३.५५ ॥
जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ॥ २,३.५६ ॥
व्यवहृपणोः समर्थयोः ॥ २,३.५७ ॥
दिवस्तदर्थस्य ॥ २,३.५८ ॥
विभाषोपसर्गे ॥ २,३.५९ ॥
द्वितीया ब्राह्मणे ॥ २,३.६० ॥
प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने ॥ २,३.६१ ॥
चतुर्थ्यर्थे बहुलं छन्दसि ॥ २,३.६२ ॥
यजेश्च करणे ॥ २,३.६३ ॥
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ॥ २,३.६४ ॥
कर्तृकर्मणोः कृति ॥ २,३.६५ ॥
उभयप्राप्तौ कर्मणि ॥ २,३.६६ ॥
क्तस्य च वर्तमाने ॥ २,३.६७ ॥
अधिकरणवाचिनश्च ॥ २,३.६८ ॥
न लोउकाव्ययनिष्ठाखलर्थतृनाम् ॥ २,३.६९ ॥
अकेनोर्भविष्यदाधमर्ण्ययोः ॥ २,३.७० ॥
कृत्यानां कर्तरि वा ॥ २,३.७१ ॥
तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् ॥ २,३.७२ ॥
चतुर्थी च आशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः ॥ २,३.७३ ॥

इति पाणिनि महर्षि विरचिताष्टाध्यायी मध्ये
द्वितीयाध्याये तृतीयः पादः
No comments:
Post a Comment