पाणिनि महर्षि विरचिता अष्टाध्यायी मध्ये
प्रथमाध्याये चतुर्थः पादः
आ कडारादेका सञ्ज्ञा । । १,४.१ । ।
विप्रतिषेधे परं कार्यम् । । १,४.२ । ।
यू स्त्र्य्-आख्यौ नदी । । १,४.३ । ।
न-इयङ्-उवङ्-स्थानावस्त्री । । १,४.४ । ।
व+आमि । । १,४.५ । ।
ङिति ह्रस्वश्च । । १,४.६ । ।
शेषो घ्यसखि । । १,४.७ । ।
पतिः समास एव । । १,४.८ । ।
षष्ठी-युक्तश्छन्दसि वा । । १,४.९ । ।
ह्रस्वं लघु । । १,४.१० । ।
संयोगे गुरु । । १,४.११ । ।
दीर्घं च । । १,४.१२ । ।
यस्मात्प्रत्यय-विधिस्तद्-आदि प्रत्ययेऽङ्गम् । । १,४.१३ । ।
सुप्-तिङ्-अन्तं पदम् । । १,४.१४ । ।
नः क्ये । । १,४.१५ । ।
सिति च । । १,४.१६ । ।
स्वादिष्व-सर्वनमस्थाने । । १,४.१७ । ।
यचि भम् । । १,४.१८ । ।
तसौ मत्व्-अर्थे । । १,४.१९ । ।
अयस्मय-आदीनि छन्दसि । । १,४.२० । ।
बहुषु बहुवचनम् । । १,४.२१ । ।
द्व्य्-एकयोर्द्विबचन-एकवचने । । १,४.२२ । ।
कारके । । १,४.२३ । ।
ध्रुवमपायेऽपादानम् । । १,४.२४ । ।
भी-त्रा-अर्थानां भय-हेतुः । । १,४.२५ । ।
परा-जेरसोढः । । १,४.२६ । ।
वारण-अर्थानां ईप्सितः । । १,४.२७ । ।
अन्तर्धौ येन अदर्शनं इच्छति । । १,४.२८ । ।
आख्याता-उपयोगे । । १,४.२९ । ।
जनि-कर्तुः प्रकृतिः । । १,४.३० । ।
भुवः प्रभवः । । १,४.३१ । ।
कर्मणा यं अभिप्रैति स सम्प्रदानम् । । १,४.३२ । ।
रुच्य्-अर्थानां प्रीयमाणः । । १,४.३३ । ।
श्लाघ-ह्नुङ्-स्था-शपां ज्ञीप्स्यमानः । । १,४.३४ । ।
धारेरुत्तमर्णः । । १,४.३५ । ।
स्पृहेरीप्सितः । । १,४.३६ । ।
क्रुध-द्रुह-ईर्ष्य-असूय-अर्थानां यं प्रति कोपः । । १,४.३७ । ।
क्रुध-द्रुहोरुपसृष्ठयोः कर्म । । १,४.३८ । ।
रादः-ईक्ष्योर्यस्य विप्रश्नः । । १,४.३९ । ।
प्रत्य्-आङ्भ्यां श्रुवः पूर्वस्य कर्ता । । १,४.४० । ।
अनु-प्रति-गृणश्च । । १,४.४१ । ।
साधकतमं करणम् । । १,४.४२ । ।
दिवः कर्म च । । १,४.४३ । ।
परिक्रयणे सम्प्रदानं अन्यतरस्याम् । । १,४.४४ । ।
आधारोऽधिकरणम् । । १,४.४५ । ।
अधि-शीङ्-स्था-आसां कर्म । । १,४.४६ । ।
अभिनिविशश्च । । १,४.४७ । ।
उप-अन्व्-अध्य्-आङ्-वसः । । १,४.४८ । ।
कर्त्रुरीप्सिततमं कर्म । । १,४.४९ । ।
तथा-युक्तं च अनीप्सितम् । । १,४.५० । ।
अकथितं च । । १,४.५१ । ।
गुति-बुद्धि-प्रत्यवसान-अर्थ-शब्द-कर्म-अकर्मकाणां अणि कर्ता स णौ । । १,४.५२ । ।
हृ-क्रोरन्यतरस्याम् । । १,४.५३ । ।
स्वतन्त्रः कर्ता । । १,४.५४ । ।
तत्-प्रयोजको हेतुश्च । । १,४.५५ । ।
प्राग्-रीश्वरान्निपाताः । । १,४.५६ । ।
च-आदयोऽसत्त्वे । । १,४.५७ । ।
प्र-आदयः । । १,४.५८ । ।
उपसर्गाः क्रिया-योगे । । १,४.५९ । ।
गतिश्च । । १,४.६० । ।
ऊर्य्-आदि-च्वि-डाचश्च । । १,४.६१ । ।
अनुकरणं च अनिति-परम् । । १,४.६२ । ।
आदर-अनादरयोः सद्-असती । । १,४.६३ । ।
भूषनेऽलम् । । १,४.६४ । ।
अन्तरपरिग्रहे । । १,४.६५ । ।
कणे-मनसी श्रद्धा-प्रतीघाते । । १,४.६६ । ।
पुरोऽव्ययम् । । १,४.६७ । ।
अस्तं च । । १,४.६८ । ।
अच्छ गत्य्-अर्थ-वदेषु । । १,४.६९ । ।
अदोऽनुपदेशे । । १,४.७० । ।
तरोऽन्तर्धौ । । १,४.७१ । ।
विभाषा कृञि । । १,४.७२ । ।
उपाजेऽन्वाजे । । १,४.७३ । ।
साक्षात्-प्रभृतीनि च । । १,४.७४ । ।
अनत्याधान उरसि-मनसी । । १,४.७५ । ।
मध्ये पदे निवचने च । । १,४.७६ । ।
नित्यं हस्ते पानाव्-उपयमने । । १,४.७७ । ।
प्राध्वं वन्धने । । १,४.७८ । ।
जीविका-उपनिषदावौपम्ये । । १,४.७९ । ।
ते प्राग्धातोः । । १,४.८० । ।
छन्दसि परेऽपि । । १,४.८१ । ।
व्यवहिताश्च । । १,४.८२ । ।
कर्मप्रवचनीयाः । । १,४.८३ । ।
अनुर्लक्षणे । । १,४.८४ । ।
तृतीया-अर्थे । । १,४.८५ । ।
हीने । । १,४.८६ । ।
उपोऽधिके च । । १,४.८७ । ।
अप-परी वर्जने । । १,४.८८ । ।
आङ्मर्यादा-वचने । । १,४.८९ । ।
लक्षन-इत्थं-भूत-आख्यान-भाग-वीप्सासु प्रति-पर्य्-अनवः । । १,४.९० । ।
अभिरभागे । । १,४.९१ । ।
प्रतिः प्रतिनिधि-प्रतिदानयोः । । १,४.९२ । ।
अधिपरी अनर्थकौ । । १,४.९३ । ।
सुः पूजायाम् । । १,४.९४ । ।
अतिरतिक्रमणे च । । १,४.९५ । ।
अपिः पदार्थ-सम्भावन-अन्ववसर्ग-गर्हा-समुच्चयेषु । । १,४.९६ । ।
अधिरीश्वरे । । १,४.९७ । ।
विभाषा कृञि । । १,४.९८ । ।
लः परस्मैपदम् । । १,४.९९ । ।
तङ्-आनावात्मनेपदम् । । १,४.१०० । ।
तिङस्त्रीणि त्रीणि प्रथम-मध्यम-उत्तमाः । । १,४.१०१ । ।
तान्येकवचनाद्विवचनबहुवचनान्येकशः । । १,४.१०२ । ।
सुपः । । १,४.१०३ । ।
विभक्तिश्च । । १,४.१०४ । ।
युष्मद्य्-उपपदे समान-अधिकरणे स्थानिन्यपि मध्यमः । । १,४.१०५ । ।
प्रहासे च मन्य-उपपदे मन्यतेरुत्तम एकवच्च । । १,४.१०६ । ।
अस्मद्युत्तमः । । १,४.१०७ । ।
शेषे प्रथमः । । १,४.१०८ । ।
परः संनिकर्षः संहिता । । १,४.१०९ । ।
विरामोऽवसानम् । । १,४.११० । ।
इति पाणिनि महर्षि विरचिता अष्टाध्यायी मध्ये
प्रथमाध्याये चतुर्थः पादः